Sukta 6.20
द्यौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान् । तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वृत्रतुरम् ॥
द्यौर्न य इ॑न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् । तं न॑: स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू॑नो सहसो वृत्र॒तुर॑म् ॥
dyáur ná ya índrābhí bhū́māryás tastháu rayíḥ śávasā pṛtsú jánān | táṃ naḥ sahásra-bharam urvarā́sāṃ daddhí sū́no sahaso vṛtrá-turam ||
Like heaven overarching earth, the noble wealth stands up by your force among the battling peoples; grant us that abundance bearing a thousand loads, rich in fruitful fields—O son of might, slayer of the coverer.
द्यौः । न । यः । इ॒न्द्र॒ । अ॒भि । भूम॑ । अ॒र्यः । त॒स्थौ । र॒यिः । शव॑सा । पृ॒त्ऽसु । जना॑न् । तम् । नः॒ । स॒हस्र॑ऽभरम् । उ॒र्व॒रा॒ऽसाम् । द॒द्धि । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वृ॒त्र॒ऽतुर॑म् ॥द्यौः । न । यः । इन्द्र । अभि । भूम । अर्यः । तस्थौ । रयिः । शवसा । पृत्सु । जनान् । तम् । नः । सहस्रभरम् । उर्वरासाम् । दद्धि । सूनो इति । सहसः । वृत्रतुरम् ॥dyauḥ | na | yaḥ | indra | abhi | bhūma | aryaḥ | tasthau | rayiḥ | śavasā | pṛt-su | janān | tam | naḥ | sahasra-bharam | urvarāsām | daddhi | sūno iti | sahasaḥ | vṛtra-turam