Sukta 6.20
त्वं वृध इन्द्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय । परा नववास्त्वमनुदेयं महे पित्रे ददाथ स्वं नपातम् ॥
त्वं वृ॒ध इ॑न्द्र पू॒र्व्यो भू॑र्वरिव॒स्यन्नु॒शने॑ का॒व्याय॑ । परा॒ नव॑वास्त्वमनु॒देयं॑ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा॑तम् ॥
tváṃ vṛdhá índra pū́rvyo bhūr varivasyán uśáne kāvyā́ya | parā́ náva-vāstvam anu-déyaṃ mahé pittré dadātha sváṃ napā́tam ||
Thou, O Indra, wast the ancient increaser, making wide room for Uśanā Kāvya. Thou didst give to the great Father the ‘new dwelling’ that must be carried forward—thy own offspring, a rightful continuance of the divine lineage within us.
त्वम् । वृ॒धः । इ॒न्द्र॒ । पू॒र्व्यः॑ । भूः॒ । व॒रि॒व॒स्यन् । उ॒शने॑ । का॒व्याय॑ । परा॑ । नव॑ऽवास्त्वम् । अ॒नु॒ऽदेय॑म् । म॒हे । पि॒त्रे । द॒दा॒थ॒ । स्वम् । नपा॑तम् ॥त्वम् । वृधः । इन्द्र । पूर्व्यः । भूः । वरिवस्यन् । उशने । काव्याय । परा । नववास्त्वम् । अनुदेयम् । महे । पित्रे । ददाथ । स्वम् । नपातम् ॥tvam | vṛdhaḥ | indra | pūrvyaḥ | bhūḥ | varivasyan | uśane | kāvyāya | parā | nava-vāstvam | anu-deyam | mahe | pitre | dadātha | svam | napātam