Sukta 6.19
आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात् । आ विश्वतो अभि समेत्वर्वाङिन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥
आ ते॒ शुष्मो॑ वृष॒भ ए॑तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता॑त् । आ वि॒श्वतो॑ अ॒भि समे॑त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व॑र्वद्धेह्य॒स्मे ॥
ā́ te śúṣmo vṛṣabhá etu paścā́d óttarād ádharād ā́ purástāt | ā́ viśvátó abhí sám etv arvā́ṅ índra dyumnáṃ svàr-vad dhehy asmè ||
Let your bull-like force come to us from behind, from above, from below, from the front; from every side let it gather and arrive, turning toward us—O Indra—set in us a luminous glory that is filled with the Sun-world.
आ । ते॒ । शुष्मः॑ । वृ॒ष॒भः । ए॒तु॒ । प॒श्चात् । आ । उ॒त्त॒रात् । अ॒ध॒रात् । आ । पु॒रस्ता॑त् । आ । वि॒श्वतः॑ । अ॒भि । सम् । ए॒तु॒ । अ॒र्वाङ् । इन्द्र॑ । द्यु॒म्नम् । स्वः॑ऽवत् । धे॒हि॒ । अ॒स्मे इति॑ ॥आ । ते । शुष्मः । वृषभः । एतु । पश्चात् । आ । उत्तरात् । अधरात् । आ । पुरस्तात् । आ । विश्वतः । अभि । सम् । एतु । अर्वाङ् । इन्द्र । द्युम्नम् । स्वःवत् । धेहि । अस्मे इति ॥ā | te | śuṣmaḥ | vṛṣabhaḥ | etu | paścāt | ā | uttarāt | adharāt | ā | purastāt | ā | viśvataḥ | abhi | sam | etu | arvāṅ | indra | dyumnam | svaḥ-vat | dhehi | asme iti