Sukta 6.19
आ नो भर वृषणं शुष्ममिन्द्र धनस्पृतं शूशुवांसं सुदक्षम् । येन वंसाम पृतनासु शत्रून्तवोतिभिरुत जामीँरजामीन् ॥
आ नो॑ भर॒ वृष॑णं॒ शुष्म॑मिन्द्र धन॒स्पृतं॑ शूशु॒वांसं॑ सु॒दक्ष॑म् । येन॒ वंसा॑म॒ पृत॑नासु॒ शत्रू॒न्तवो॒तिभि॑रु॒त जा॒मीँरजा॑मीन् ॥
ā́ no bhara vṛ́ṣaṇaṃ śúṣmam indra dhana-spṛ́taṃ śūśuvā́ṃsaṃ su-dákṣam | yéna vaṃsā́ma pṛ́tanāsu śátrūn távotíbhir utá jāmī́ṃr ajāmī́n ||
Bring to us, O Indra, the bull-like might, the impetuous force, winning the riches, grown intense and perfectly skilled; by it may we conquer in the battles the enemies—by your helps—and also the near-kindred and the alien who oppose.
आ । नः॒ । भ॒र॒ । वृष॑णम् । शुष्म॑म् । इ॒न्द्र॒ । ध॒न॒ऽस्पृत॑म् । शू॒शु॒ऽवांस॑म् । सु॒ऽदक्ष॑म् । येन॑ । वंसा॑म । पृत॑नासु । शत्रू॑न् । तव॑ । ऊ॒तिऽभिः॑ । उ॒त । जा॒मीन् । अजा॑मीन् ॥आ । नः । भर । वृषणम् । शुष्मम् । इन्द्र । धनस्पृतम् । शूशुवांसम् । सुदक्षम् । येन । वंसाम । पृतनासु । शत्रून् । तव । ऊतिभिः । उत । जामीन् । अजामीन् ॥ā | naḥ | bhara | vṛṣaṇam | śuṣmam | indra | dhana-spṛtam | śūśu-vāṃsam | su-dakṣam | yena | vaṃsāma | pṛtanāsu | śatrūn | tava | ūti-bhiḥ | uta | jāmīn | ajāmīn