Sukta 6.19
यस्ते मदः पृतनाषाळमृध्र इन्द्र तं न आ भर शूशुवांसम् । येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः ॥
यस्ते॒ मद॑: पृतना॒षाळमृ॑ध्र॒ इन्द्र॒ तं न॒ आ भ॑र शूशु॒वांस॑म् । येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं॑सी॒महि॑ जिगी॒वांस॒स्त्वोता॑: ॥
yás te mádaḥ pṛtanāṣā́ḷ amṛ́dhra índra táṃ na ā́ bhara śūśuvā́ṃsam | yéna tokásya tánayasya sātáu maṃsī́mahi jigīvā́ṃsas tvāūtā́ḥ ||
Bring to us, O Indra, that unerring battle-conquering ecstasy of yours, the ardour that has grown intense; by it we would win the gain of the child and the continuance of the offspring, and, protected by you, remain ever victorious.
यः । ते॒ । मदः॑ । पृ॒त॒ना॒षाट् । अमृ॑ध्रः । इन्द्र॑ । तम् । नः॒ । आ । भ॒र॒ । शू॒शु॒ऽवांस॑म् । येन॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तौ । मं॒सी॒महि॑ । जि॒गी॒वांसः॑ । त्वाऽऊ॑ताः ॥यः । ते । मदः । पृतनाषाट् । अमृध्रः । इन्द्र । तम् । नः । आ । भर । शूशुवांसम् । येन । तोकस्य । तनयस्य । सातौ । मंसीमहि । जिगीवांसः । त्वाऊताः ॥yaḥ | te | madaḥ | pṛtanāṣāṭ | amṛdhraḥ | indra | tam | naḥ | ā | bhara | śūśu-vāṃsam | yena | tokasya | tanayasya | sātau | maṃsīmahi | jigīvāṃsaḥ | tvāūtāḥ