Sukta 6.19
शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूत उग्रम् । विश्वा द्युम्ना वृष्ण्या मानुषाणामस्मभ्यं दा हरिवो मादयध्यै ॥
शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो॑ अभिभूत उ॒ग्रम् । विश्वा॑ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं॑ दा हरिवो माद॒यध्यै॑ ॥
śáviṣṭhaṃ na ā́ bhara śūra śáva ójiṣṭham ójo abhibhūta ugrám | víśvā dyumnā́ vṛ́ṣṇyā mā́nuṣāṇām asmábhyaṃ dā hari-vo mādayádhyai ||
Bring to us, O hero, the most impetuous force, the most mighty might—overpowering and fierce. Give us all the luminous energies, the virile powers of men, O lord of the tawny steeds, for our ecstasy of the divine delight.
शवि॑ष्ठम् । नः॒ । आ । भ॒र॒ । शू॒र॒ । शवः॑ । ओजि॑ष्ठम् । ओजः॑ । अ॒भि॒ऽभू॒ते॒ । उ॒ग्रम् । विश्वा॑ । द्यु॒म्ना । वृष्ण्या॑ । मानु॑षाणाम् । अ॒स्म्भ्य॑म् । दाः॒ । ह॒रि॒ऽवः॒ । मा॒द॒यध्यै॑ ॥शविष्ठम् । नः । आ । भर । शूर । शवः । ओजिष्ठम् । ओजः । अभिभूते । उग्रम् । विश्वा । द्युम्ना । वृष्ण्या । मानुषाणाम् । अस्म्भ्यम् । दाः । हरिवः । मादयध्यै ॥śaviṣṭham | naḥ | ā | bhara | śūra | śavaḥ | ojiṣṭham | ojaḥ | abhi-bhūte | ugram | viśvā | dyumnā | vṛṣṇyā | mānuṣāṇām | asmbhyam | dāḥ | hari-vaḥ | mādayadhyai