Sukta 6.19
धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः । सं जग्मिरे पथ्या रायो अस्मिन्त्समुद्रे न सिन्धवो यादमानाः ॥
धृ॒तव्र॑तो धन॒दाः सोम॑वृद्ध॒: स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः । सं ज॑ग्मिरे प॒थ्या॒३॒॑ रायो॑ अस्मिन्त्समु॒द्रे न सिन्ध॑वो॒ याद॑मानाः ॥
dhṛtávrato dhanadā́ḥ sómavṛddhaḥ sá hí vā́masya vásunaḥ purukṣúḥ | sáṃ jagmire pathyā́ rā́yo asmín samudré ná síndhavo yā́damānāḥ ||
Holder of the law of will, giver of riches, increased by Soma—he indeed is the wide-dwelling of the desirable wealth. The right-going streams of plenitude gather in him, as rivers meeting in the ocean, moving and offering their abundance.
धृ॒तऽव्र॑तः । ध॒न॒ऽदाः । सोम॑ऽवृद्धः । सः । हि । वा॒मस्य॑ । वसु॑नः । पु॒रु॒ऽक्षुः । सम् । जि॒ग्मि॒रे॒ । प॒थ्याः॑ । रायः॑ । अ॒स्मि॒न् । स॒मु॒द्रे । न । सिन्ध॑वः । याद॑मानाः ॥धृतव्रतः । धनदाः । सोमवृद्धः । सः । हि । वामस्य । वसुनः । पुरुक्षुः । सम् । जिग्मिरे । पथ्याः । रायः । अस्मिन् । समुद्रे । न । सिन्धवः । यादमानाः ॥dhṛta-vrataḥ | dhana-dāḥ | soma-vṛddhaḥ | saḥ | hi | vāmasya | vasunaḥ | puru-kṣuḥ | sam | jigmire | pathyāḥ | rāyaḥ | asmin | samudre | na | sindhavaḥ | yādamānāḥ