Sukta 6.19
पृथू करस्ना बहुला गभस्ती अस्मद्र्यक्सं मिमीहि श्रवांसि । यूथेव पश्वः पशुपा दमूना अस्माँ इन्द्राभ्या ववृत्स्वाजौ ॥
पृ॒थू क॒रस्ना॑ बहु॒ला गभ॑स्ती अस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि । यू॒थेव॑ प॒श्वः प॑शु॒पा दमू॑ना अ॒स्माँ इ॑न्द्रा॒भ्या व॑वृत्स्वा॒जौ ॥
pṛthū́ karásnā bahulā́ gábhastī asmadryák sáṃ mimīhi śrávāṃsi | yū́theva paśváḥ paśupā́ damūnā́ asmā́n indrābhyā́ vavṛtsvā́jau ||
With broad hands and abundant rays, turn toward us and gather together the powers of inspired hearing. As herds, O guardian of the herds, master of the house, encompass us, O Indra, in the battle.
पृ॒थू इति॑ । क॒रस्ना॑ । ब॒हु॒ला । गभ॑स्ती॒ इति॑ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि । यू॒थाऽइ॑व । प॒श्वः । प॒शु॒ऽपाः । दमू॑नाः । अ॒स्मान् । इ॒न्द्र॒ । अ॒भि । आ । व॒वृ॒त्स्व॒ । आ॒जौ ॥पृथू इति । करस्ना । बहुला । गभस्ती इति । अस्मद्र्यक् । सम् । मिमीहि । श्रवांसि । यूथाइव । पश्वः । पशुपाः । दमूनाः । अस्मान् । इन्द्र । अभि । आ । ववृत्स्व । आजौ ॥pṛthū iti | karasnā | bahulā | gabhastī iti | asmadryak | sam | mimīhi | śravāṃsi | yūthāiva | paśvaḥ | paśu-pāḥ | damūnāḥ | asmān | indra | abhi | ā | vavṛtsva | ājau