Sukta 6.19
इन्द्रमेव धिषणा सातये धाद्बृहन्तमृष्वमजरं युवानम् । अषाळ्हेन शवसा शूशुवांसं सद्यश्चिद्यो वावृधे असामि ॥
इन्द्र॑मे॒व धि॒षणा॑ सा॒तये॑ धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् । अषा॑ळ्हेन॒ शव॑सा शूशु॒वांसं॑ स॒द्यश्चि॒द्यो वा॑वृ॒धे असा॑मि ॥
índram evá dhiṣáṇā sātáye dhād bṛhántam ṛ́ṣvam ajáraṃ yúvānām | aṣā́ḷhena śávasā śūśuvā́ṃsaṃ sadyáś cid yó vāvṛdhé asā́mi ||
Dhiṣaṇā set Indra himself for the winning: the Vast, the high-rising, the ageless, the ever-young. With unconquered force, ever-intensifying, he who even in an instant grows to an immeasurable wideness.
इन्द्र॑म् । ए॒व । धि॒षणा॑ । सा॒तये॑ । धा॒त् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् । अषा॑ळ्हेन । शव॑सा । शू॒सु॒ऽवांस॑म् । स॒द्यः । चि॒त् । यः । व॒वृ॒धे । असा॑मि ॥इन्द्रम् । एव । धिषणा । सातये । धात् । बृहन्तम् । ऋष्वम् । अजरम् । युवानम् । अषाळ्हेन । शवसा । शूसुवांसम् । सद्यः । चित् । यः । ववृधे । असामि ॥indram | eva | dhiṣaṇā | sātaye | dhāt | bṛhantam | ṛṣvam | ajaram | yuvānam | aṣāḷhena | śavasā | śūsu-vāṃsam | sadyaḥ | cit | yaḥ | vavṛdhe | asāmi