Sukta 6.16
त्वं होता मनुर्हितो वह्निरासा विदुष्टरः । अग्ने यक्षि दिवो विशः ॥
त्वं होता॒ मनु॑र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः । अग्ने॒ यक्षि॑ दि॒वो विश॑: ॥
tváṃ hótā mánur-hito váhnir āsā́ vidúṣ-ṭaraḥ | agne yákṣi divó víśaḥ ||
You are the Hotṛ set in place by Manu; you are the carrying flame, the more-than-knowing guide. O Agni, perform the offering to the peoples of the Heaven—bring the luminous powers into our ordered life.
त्वम् । होता॑ । मनुः॑ऽहितः । वह्निः॑ । आ॒सा । वि॒दुःऽत॑रः । अग्ने॑ । यक्षि॑ । दि॒वः । विशः॑ ॥त्वम् । होता । मनुःहितः । वह्निः । आसा । विदुःतरः । अग्ने । यक्षि । दिवः । विशः ॥tvam | hotā | manuḥ-hitaḥ | vahniḥ | āsā | viduḥ-taraḥ | agne | yakṣi | divaḥ | viśaḥ