Sukta 6.16
त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् । शृण्वन्विप्रस्य सुष्टुतिम् ॥
त्वं दू॒तो अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जन॑म् । शृ॒ण्वन्विप्र॑स्य सुष्टु॒तिम् ॥
tváṃ dūtó amártya ā́ vahā daívyaṃ jánam | śṛṇván víprasya su-stutím ||
You, the immortal messenger, bring here the divine peoples (powers); listening to the seer’s well-shaped praise, lead them into our awakened offering.
त्वम् । दू॒तः । अम॑र्त्यः । आ । व॒ह॒ । दैव्य॑म् । जन॑म् । शृ॒ण्वन् । विप्र॑स्य । सु॒ऽस्तु॒तिम् ॥त्वम् । दूतः । अमर्त्यः । आ । वह । दैव्यम् । जनम् । शृण्वन् । विप्रस्य । सुस्तुतिम् ॥tvam | dūtaḥ | amartyaḥ | ā | vaha | daivyam | janam | śṛṇvan | viprasya | su-stutim