Sukta 6.16
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्ति मन्यवे ॥
अग्ने॑ यु॒क्ष्वा हि ये तवाश्वा॑सो देव सा॒धव॑: । अरं॒ वह॑न्ति म॒न्यवे॑ ॥
ágné yukṣvā́ hí yé tavā́śvāso deva sā́dhavaḥ | áraṁ váhanti mányave ||
O Agni, yoke your horses—for your steeds, O god, are perfect in their working; they carry swiftly for the soul’s ardor (manyu) toward its victorious act.
अग्ने॑ । यु॒क्ष्व । हि । ये । तव॑ । अश्वा॑सः । दे॒व॒ । सा॒धवः॑ । अर॑म् । वह॑न्ति । म॒न्यवे॑ ॥अग्ने । युक्ष्व । हि । ये । तव । अश्वासः । देव । साधवः । अरम् । वहन्ति । मन्यवे ॥agne | yukṣva | hi | ye | tava | aśvāsaḥ | deva | sādhavaḥ | aram | vahanti | manyave