Sukta 6.16
आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति । विशामग्निं स्वध्वरम् ॥
आ यं हस्ते॒ न खा॒दिनं॒ शिशुं॑ जा॒तं न बिभ्र॑ति । वि॒शाम॒ग्निं स्व॑ध्व॒रम् ॥
ā́ yáṁ háste ná khādínaṁ śíśuṁ jātáṁ ná bíbhrati | viśā́m agníṁ svàdhvarám ||
Him whom they bear in the hand like a devouring infant newly born—Agni of the peoples, the one of good sacrifice: bring him here, uphold him within us.
आ । यम् । हस्ते॑ । न । खा॒दिन॑म् । शिशु॑म् । जा॒तम् । न । बिभ्र॑ति । वि॒शाम् । अ॒ग्निम् । सु॒ऽअ॒ध्व॒रम् ॥आ । यम् । हस्ते । न । खादिनम् । शिशुम् । जातम् । न । बिभ्रति । विशाम् । अग्निम् । सुअध्वरम् ॥ā | yam | haste | na | khādinam | śiśum | jātam | na | bibhrati | viśām | agnim | su-adhvaram