Sukta 6.16
त्वामीळे अध द्विता भरतो वाजिभिः शुनम् । ईजे यज्ञेषु यज्ञियम् ॥
त्वामी॑ळे॒ अध॑ द्वि॒ता भ॑र॒तो वा॒जिभि॑: शु॒नम् । ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय॑म् ॥
tvā́m īḷe ádha dvitā́ bhárato vājíbhiḥ śunám | ī́je yajñéṣu yajñíyam ||
I adore thee again and yet again; Bharata, with the forces of plenitude, seeks the happy good. He worships in the sacrifices the one who is worthy of sacrifice.
त्वाम् । ई॒ळे॒ । अध॑ । द्वि॒ता । भ॒र॒तः । वा॒जिऽभिः॑ । शु॒नम् । ई॒जे । य॒ज्ञेषु॑ । य॒ज्ञिय॑म् ॥त्वाम् । ईळे । अध । द्विता । भरतः । वाजिभिः । शुनम् । ईजे । यज्ञेषु । यज्ञियम् ॥tvām | īḷe | adha | dvitā | bharataḥ | vāji-bhiḥ | śunam | īje | yajñeṣu | yajñiyam