Sukta 6.16
त्वं नः पाह्यंहसो जातवेदो अघायतः । रक्षा णो ब्रह्मणस्कवे ॥
त्वं न॑: पा॒ह्यंह॑सो॒ जात॑वेदो अघाय॒तः । रक्षा॑ णो ब्रह्मणस्कवे ॥
tváṃ naḥ pāhy áṃhaso jā́tavedo aghāyató | rákṣā no brahmaṇaskave ||
Do thou protect us from anguish and error, O Jātavedas, from the one who wills evil; guard us, O poet of the sacred word.
त्वम् । नः॒ । पा॒हि॒ । अंह॑सः । जात॑ऽवेदः । अ॒घ॒ऽय॒तः । रक्ष॑ । नः॒ । ब्र॒ह्म॒णः॒ । क॒वे॒ ॥त्वम् । नः । पाहि । अंहसः । जातवेदः । अघयतः । रक्ष । नः । ब्रह्मणः । कवे ॥tvam | naḥ | pāhi | aṃhasaḥ | jāta-vedaḥ | agha-yataḥ | rakṣa | naḥ | brahmaṇaḥ | kave