Sukta 6.14
अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति । सहावा यस्यावृतो रयिर्वाजेष्ववृतः ॥
अ॒ग्निर्हि वि॒द्मना॑ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ । स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ॥
agnír hí vidmánā nidó devó mártam uruṣyáti | sahá-vā́ yásyā́vṛto rayír vā́jeṣv ávṛtaḥ ||
Agni indeed, by his knowledge, protects the mortal from hostile negations; with him as companion, for whom the plenitude is unclosed—his wealth of force is unclosed in the victories.
अ॒ग्निः । हि । वि॒द्मना॑ । नि॒दः । दे॒वः । मर्त॑म् । उ॒रु॒ष्यति॑ । स॒हऽवा॑ । यस्य॑ । अवृ॑तः । र॒यिः । वाजे॑षु । अवृ॑तः ॥अग्निः । हि । विद्मना । निदः । देवः । मर्तम् । उरुष्यति । सहवा । यस्य । अवृतः । रयिः । वाजेषु । अवृतः ॥agniḥ | hi | vidmanā | nidaḥ | devaḥ | martam | uruṣyati | saha-vā | yasya | avṛtaḥ | rayiḥ | vājeṣu | avṛtaḥ