Sukta 6.14
अग्निरप्सामृतीषहं वीरं ददाति सत्पतिम् । यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ॥
अ॒ग्निर॒प्सामृ॑ती॒षहं॑ वी॒रं द॑दाति॒ सत्प॑तिम् । यस्य॒ त्रस॑न्ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ॥
agnír apsā́m ṛti-sáhaṁ vī́raṁ dadāti sát-patim | yásya trásanti śávasas sáṁ-cakṣi śátravo bhiyā́ ||
Agni gives a hero who can endure the assaults, a true lord of the being; before whose force the adversaries tremble, seen together in fear.
अ॒ग्निः । अ॒प्साम् । ऋ॒ति॒ऽसह॑म् । वी॒रम् । द॒दा॒ति॒ । सत्ऽप॑तिम् । यस्य॑ । त्रस॑न्ति । शव॑सः । स॒म्ऽचक्षि॑ । शत्र॑वः । भि॒या ॥अग्निः । अप्साम् । ऋतिसहम् । वीरम् । ददाति । सत्पतिम् । यस्य । त्रसन्ति । शवसः । सम्चक्षि । शत्रवः । भिया ॥agniḥ | apsām | ṛti-saham | vīram | dadāti | sat-patim | yasya | trasanti | śavasaḥ | sam-cakṣi | śatravaḥ | bhiyā