Sukta 6.14
नाना ह्यग्नेऽवसे स्पर्धन्ते रायो अर्यः । तूर्वन्तो दस्युमायवो व्रतैः सीक्षन्तो अव्रतम् ॥
नाना॒ ह्य१॒॑ग्नेऽव॑से॒ स्पर्ध॑न्ते॒ रायो॑ अ॒र्यः । तूर्व॑न्तो॒ दस्यु॑मा॒यवो॑ व्र॒तैः सीक्ष॑न्तो अव्र॒तम् ॥
nānā́ hí agne ávase spárdhante rā́yo aryáḥ | tū́rvanto dásyum ā́yavo vratáiḥ sīkṣánto avratám ||
Various indeed, O Agni, are the strivings of the Arya for thy help and for the plenitudes: pressing upon the Dasyu forces, the seekers by the law of the rite discipline the lawless.
नाना॑ । हि । अ॒ग्ने॒ । अव॑से । स्पर्ध॑न्ते । रायः । अ॒र्यः । तूर्व॑न्तः । दस्यु॑म् । आ॒यवः॑ । व्र॒तैः । सीक्ष॑न्तः । अ॒व्र॒तम् ॥नाना । हि । अग्ने । अवसे । स्पर्धन्ते । रायः । अर्यः । तूर्वन्तः । दस्युम् । आयवः । व्रतैः । सीक्षन्तः । अव्रतम् ॥nānā | hi | agne | avase | spardhante | rāyaḥ | aryaḥ | tūrvantaḥ | dasyum | āyavaḥ | vrataiḥ | sīkṣantaḥ | avratam