Sukta 6.14
अग्निरिद्धि प्रचेता अग्निर्वेधस्तम ऋषिः । अग्निं होतारमीळते यज्ञेषु मनुषो विशः ॥
अ॒ग्निरिद्धि प्रचे॑ता अ॒ग्निर्वे॒धस्त॑म॒ ऋषि॑: । अ॒ग्निं होता॑रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विश॑: ॥
agnír íd dhí prácetā agnír vedhás-tama ṛ́ṣiḥ | agníṁ hotā́ram īḷate yajñéṣu mánuṣo víśaḥ ||
Agni indeed is the one of awakened consciousness; Agni is the most accomplished knower, the seer. Agni as the Invoker-priest is adored by the human peoples in their sacrifices.
अ॒ग्निः । इत् । हि । प्रऽचे॑र्ताः । अ॒ग्निः । वे॒धःऽत॑मः । ऋषिः॑ । अ॒ग्निम् । होता॑रम् । ई॒ळ॒ते॒ । य॒ज्ञेषु॑ । मनु॑षः । विशः॑ ॥अग्निः । इत् । हि । प्रचेर्ताः । अग्निः । वेधःतमः । ऋषिः । अग्निम् । होतारम् । ईळते । यज्ञेषु । मनुषः । विशः ॥agniḥ | it | hi | pra-certāḥ | agniḥ | vedhaḥ-tamaḥ | ṛṣiḥ | agnim | hotāram | īḷate | yajñeṣu | manuṣaḥ | viśaḥ