Sukta 6.13
ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः । कृणोषि यच्छवसा भूरि पश्वो वयो वृकायारये जसुरये ॥
ता नृभ्य॒ आ सौ॑श्रव॒सा सु॒वीराग्ने॑ सूनो सहसः पु॒ष्यसे॑ धाः । कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका॑या॒रये॒ जसु॑रये ॥
tā́ nṛ́bhya ā́ sauśravasā́ su-vīrāgne sūno sahaso puṣyáse dhāḥ | kṛṇóṣi yác cháv asā bhū́ri paśvó váyo vṛ́kāyāráye jásuraye ||
Those boons—good fame and heroic power—bring to men, O Agni, son of strength, whom thou nourishest and settest in us. For by thy force thou makest abundant the herds and the winged powers; and thou givest them beyond the wolf and the hostile, beyond the devourer of the light.
ता । नृऽभ्यः॑ । आ । सौ॒श्र॒व॒सा । सु॒ऽवीरा॑ । अग्ने॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । पु॒ष्यसे॑ । धाः॒ । कृ॒णोषि॑ । यत् । शव॑सा । भूरि॑ । प॒श्वः । वयः॑ । वृका॑य । अ॒रये॑ । जसु॑रये ॥ता । नृभ्यः । आ । सौश्रवसा । सुवीरा । अग्ने । सूनो इति । सहसः । पुष्यसे । धाः । कृणोषि । यत् । शवसा । भूरि । पश्वः । वयः । वृकाय । अरये । जसुरये ॥tā | nṛ-bhyaḥ | ā | sauśravasā | su-vīrā | agne | sūno iti | sahasaḥ | puṣyase | dhāḥ | kṛṇoṣi | yat | śavasā | bhūri | paśvaḥ | vayaḥ | vṛkāya | araye | jasuraye