Sukta 6.13
यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट् । विश्वं स देव प्रति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः ॥
यस्ते॑ सूनो सहसो गी॒ર્ભिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् । विश्वं॒ स दे॑व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्यं१॒॑ पत्य॑ते वस॒व्यै॑: ॥
yás te sūno sahaso gīrbhír ukthaír yajñáir márto níśitiṃ vedyā́ ā́naṭ | víśvaṃ sá deva práti vā́ram agne dhatté dhā́nyaṃ pát yate vasavyáiḥ ||
Whoever, O son of strength, by hymns and chants and sacrifices reaches thy keen edge at the altar—he, O god, gains every desirable opening; he holds the grain of fulfillment and becomes master of riches that make him a dwelling of the good.
यः । ते॒ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । गीः॒ऽभिः । उ॒क्थैः । य॒ज्ञैः । मर्तः॑ । निऽशि॑तम् । वे॒द्या । आन॑ट् । विश्व॑म् । सः । दे॒व॒ । प्रति॑ । वार॑म् । अ॒ग्ने॒ । ध॒त्ते । धा॒न्यम् । पत्य॑ते । व॒स॒व्यैः॑ ॥यः । ते । सूनो इति । सहसः । गीःभिः । उक्थैः । यज्ञैः । मर्तः । निशितम् । वेद्या । आनट् । विश्वम् । सः । देव । प्रति । वारम् । अग्ने । धत्ते । धान्यम् । पत्यते । वसव्यैः ॥yaḥ | te | sūno iti | sahasaḥ | gīḥ-bhiḥ | ukthaiḥ | yajñaiḥ | martaḥ | ni-śitam | vedyā | ānaṭ | viśvam | saḥ | deva | prati | vāram | agne | dhatte | dhānyam | patyate | vasavyaiḥ