Sukta 6.13
स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजम् । यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥
स सत्प॑ति॒: शव॑सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाज॑म् । यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ॥
sá sátpatiḥ śávasā hanti vṛtrám agne vípro ví paṇér bhárti vā́jam | yáṃ tváṃ práceta ṛtajāta rāyā́ sajóṣā náptrā apā́ṃ hinóṣi ||
He, lord of the true, by force smites the coverer; O Agni, the inspired seer bears away the plenitude of force from the trafficker. Whom thou, O foreknower, born of Ṛta, with thy plenitudes dost impel—together with the offspring of the waters—him thou drivest onward.
सः । सत्ऽप॑तिः । शव॑सा । ह॒न्ति॒ । वृ॒त्रम् । अ॒ग्ने॒ । विप्रः॑ । वि । प॒णेः । भ॒र्ति॒ । वाज॑म् । यम् । त्वम् । प्र॒ऽचे॒तः॒ । ऋ॒त॒ऽजा॒त॒ । रा॒या । स॒ऽजोषाः॑ । नप्त्रा॑ । अ॒पाम् । हि॒नोषि॑ ॥सः । सत्पतिः । शवसा । हन्ति । वृत्रम् । अग्ने । विप्रः । वि । पणेः । भर्ति । वाजम् । यम् । त्वम् । प्रचेतः । ऋतजात । राया । सजोषाः । नप्त्रा । अपाम् । हिनोषि ॥saḥ | sat-patiḥ | śavasā | hanti | vṛtram | agne | vipraḥ | vi | paṇeḥ | bharti | vājam | yam | tvam | pra-cetaḥ | ṛta-jāta | rāyā | sa-joṣāḥ | naptrā | apām | hinoṣi