Sukta 6.13
त्वं भगो न आ हि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः । अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥
त्वं भगो॑ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः । अग्ने॑ मि॒त्रो न बृ॑ह॒त ऋ॒तस्यासि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरे॑: ॥
tváṃ bhágo na ā́ hí rátnam íṣe párijma iva kṣáyasi dasmávarcāḥ | ágne mitró ná bṛhatá ṛtásyā́si kṣattā́ vā́masya deva bhū́reḥ ||
Thou art for us as Bhaga, bringing the treasure for our delight; like one who ranges everywhere thou dwellest and ruleth, O wonder-flaming. O Agni, like Mitra thou art the wide guardian of the Ṛta; thou art the disposer of the desirable, O god, in rich abundance.
त्वम् । भगः॑ । नः॒ । आ । हि । रत्न॑म् । इ॒षे । परि॑ज्माऽइव । क्ष॒य॒सि॒ । द॒स्मऽव॑र्चाः । अग्ने॑ । मि॒त्रः । न । बृ॒ह॒तः । ऋ॒तस्य । असि॑ । क्ष॒त्ता । वा॒मस्य॑ । दे॒व॒ । भूरेः॑ ॥त्वम् । भगः । नः । आ । हि । रत्नम् । इषे । परिज्माइव । क्षयसि । दस्मवर्चाः । अग्ने । मित्रः । न । बृहतः । ऋतस्य । असि । क्षत्ता । वामस्य । देव । भूरेः ॥tvam | bhagaḥ | naḥ | ā | hi | ratnam | iṣe | parijmāiva | kṣayasi | dasma-varcāḥ | agne | mitraḥ | na | bṛhataḥ | ṛtasya | asi | kṣattā | vāmasya | deva | bhūreḥ