Sukta 6.13
त्वद्विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः । श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम् ॥
त्वद्विश्वा॑ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य॑न्ति व॒निनो॒ न व॒याः । श्रु॒ष्टी र॒यिर्वाजो॑ वृत्र॒तूर्ये॑ दि॒वो वृ॒ष्टिरीड्यो॑ री॒तिर॒पाम् ॥
tvád viśvā́ subhaga saúbhagāny agne ví yanti vaníno ná vayā́ḥ | śruṣṭī́ rayír vā́jo vṛtra-tū́rye divó vṛṣṭír ī́ḍyo rītír apā́m ||
From thee, O fortunate Agni, all felicities go forth like birds from the forest. The obedient hearing, the plenitude, the fullness of force in the battle with the coverer; the rain of heaven, the adorable, and the flowing order of the waters—these are thy outpourings.
त्वत् । विश्वा॑ । सु॒ऽभ॒ग॒ । सौभ॑गानि । अग्ने॑ । वि । या॒न्ति॒ । व॒निनः॑ । न । व॒याः । श्रु॒ष्टी । र॒यिः । वाजः॑ । वृ॒त्र॒ऽतूर्ये॑ । दि॒वः । वृ॒ष्टिः । ईड्यः॑ । री॒तिः । अ॒पाम् ॥त्वत् । विश्वा । सुभग । सौभगानि । अग्ने । वि । यान्ति । वनिनः । न । वयाः । श्रुष्टी । रयिः । वाजः । वृत्रतूर्ये । दिवः । वृष्टिः । ईड्यः । रीतिः । अपाम् ॥tvat | viśvā | su-bhaga | saubhagāni | agne | vi | yānti | vaninaḥ | na | vayāḥ | śruṣṭī | rayiḥ | vājaḥ | vṛtra-tūrye | divaḥ | vṛṣṭiḥ | īḍyaḥ | rītiḥ | apām