Sukta 6.11
वृञ्जे ह यन्नमसा बर्हिरग्नावयामि स्रुग्घृतवती सुवृक्तिः । अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ॥
वृ॒ञ्जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया॑मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः । अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या अश्रा॑यि य॒ज्ञः सूर्ये॒ न चक्षु॑: ॥
vṛñjé ha yán námasā bárhir agnā́v ayā́mi srúk ghṛtá-vatī su-vṛktíḥ | ámyakṣi sádma sádane pṛthivyā́ aśrā́yi yajñáḥ sū́rye ná cákṣuḥ ||
When with homage I spread the sacred grass for Agni, and extend the ladle rich with clarified light, the well-fashioned word—then the home is touched in the seat of Earth; the sacrifice is set firm like the eye in the Sun.
वृ॒ञ्जे । ह॒ । यत् । नम॑सा । ब॒र्हिः । अ॒ग्नौ । अया॑मि । स्रुक् । घृ॒तऽव॑ती । सु॒ऽवृ॒क्तिः । अम्य॑क्षि । सद्म॑ । सद॑ने । पृ॒थि॒व्याः । अश्रा॑यि । य॒ज्ञः । सूर्ये॑ । न । चक्षुः॑ ॥वृञ्जे । ह । यत् । नमसा । बर्हिः । अग्नौ । अयामि । स्रुक् । घृतवती । सुवृक्तिः । अम्यक्षि । सद्म । सदने । पृथिव्याः । अश्रायि । यज्ञः । सूर्ये । न । चक्षुः ॥vṛñje | ha | yat | namasā | barhiḥ | agnau | ayāmi | sruk | ghṛta-vatī | su-vṛktiḥ | amyakṣi | sadma | sadane | pṛthivyāḥ | aśrāyi | yajñaḥ | sūrye | na | cakṣuḥ