Sukta 6.11
अदिद्युतत्स्वपाको विभावाग्ने यजस्व रोदसी उरूची । आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः ॥
अदि॑द्युत॒त्स्वपा॑को वि॒भावाग्ने॒ यज॑स्व॒ रोद॑सी उरू॒ची । आ॒युं न यं नम॑सा रा॒तह॑व्या अ॒ञ्जन्ति॑ सुप्र॒यसं॒ पञ्च॒ जना॑: ॥
adídyutat svápāko vi-bhāvā́gne yájasva ródasī urūcī́ | āyúṃ ná yaṃ námasā rā́ta-havyā añjánti su-prayásaṃ páñca jánāḥ ||
He has shone forth—self-perfect, wide-radiant. O Agni, sacrifice to the two wide-shining worlds. Like Āyu, him the five peoples, bringing the offered gifts, anoint with homage—the one of beautiful forward movement.
अदि॑द्युतत् । सु । अपा॑कः । वि॒ऽभावा॑ । अग्ने॑ । यज॑स्व । रोद॑सी॒ इति॑ । उ॒रू॒ची इति॑ । आ॒युम् । न । यम् । नम॑सा । रा॒तऽह॑व्याः । अ॒ञ्जन्ति॑ । सु॒ऽप्र॒यस॑म् । पञ्च॑ । जनाः॑ ॥अदिद्युतत् । सु । अपाकः । विभावा । अग्ने । यजस्व । रोदसी इति । उरूची इति । आयुम् । न । यम् । नमसा । रातहव्याः । अञ्जन्ति । सुप्रयसम् । पञ्च । जनाः ॥adidyutat | su | apākaḥ | vi-bhāvā | agne | yajasva | rodasī iti | urūcī iti | | āyum | na | yam | namasā | rāta-havyāḥ | añjanti | su-prayasam | pañca | janāḥ