Sukta 6.11
दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः । रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः ॥
द॒श॒स्या न॑: पुर्वणीक होतर्दे॒वेभि॑रग्ने अ॒ग्निभि॑रिधा॒नः । रा॒यः सू॑नो सहसो वावसा॒ना अति॑ स्रसेम वृ॒जनं॒ नांह॑: ॥
dṛśásya naḥ puru-aṇīka hotar devébhiḥ agne agníbhir idhānáḥ | rāyáḥ sūno sahaso vavasānā́ áti srasema vṛjánam nā́ṃhaḥ ||
Be gracious to us, O Hotṛ of many faces; O Agni, kindled with the gods, with the fires. O son of Force, desiring the plenitude, may we pass beyond the hard strait of distress, as one crosses a perilous wilderness.
दृ॒श॒स्य । नः॒ । पु॒रु॒ऽअ॒णी॒क॒ । हो॒तः॒ । दे॒वेभिः॑ । अ॒ग्ने॒ । अ॒ग्निऽभिः॑ । इ॒धा॒नः । रा॒यः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । व॒व॒सा॒नाः । अति॑ । स्र॒से॒म॒ । वृ॒जन॑म् । न । अंहः॑ ॥दृशस्य । नः । पुरुअणीक । होतः । देवेभिः । अग्ने । अग्निभिः । इधानः । रायः । सूनो इति । सहसः । ववसानाः । अति । स्रसेम । वृजनम् । न । अंहः ॥dṛśasya | naḥ | puru-aṇīka | hotaḥ | devebhiḥ | agne | agni-bhiḥ | idhānaḥ | rāyaḥ | sūno iti | sahasaḥ | vavasānāḥ | ati | srasema | vṛjanam | na | aṃhaḥ