Sukta 6.11
धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै । वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ ॥
धन्या॑ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै । वेपि॑ष्ठो॒ अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ॥
dhányā cid dhí tvé dhiṣáṇā váṣṭi prá devā́ñ jánma gṛṇaté yájadhyai | vepiṣṭhó aṅgírasāṃ yád dha vípro mádhu chándo bhánati rebhá iṣṭáu ||
For indeed, even the inspired understanding is prosperous in thee; it presses forward the godheads for the singer to sacrifice. Most vibrant of the Aṅgirases, when the seer, the chanting one, in the desired rite utters the honeyed rhythm of the chant.
धन्या॑ । चि॒त् । हि । त्वे इति॑ । धि॒षणा॑ । वष्टि॑ । प्र । दे॒वान् । जन्म॑ । गृ॒ण॒ते । यज॑ध्यै । वेपि॑ष्ठः । अङ्गि॑रसाम् । यत् । ह॒ । विप्रः॑ । मधु॑ । छ॒न्दः । भन॑ति । रे॒भः । इ॒ष्टौ ॥धन्या । चित् । हि । त्वे इति । धिषणा । वष्टि । प्र । देवान् । जन्म । गृणते । यजध्यै । वेपिष्ठः । अङ्गिरसाम् । यत् । ह । विप्रः । मधु । छन्दः । भनति । रेभः । इष्टौ ॥dhanyā | cit | hi | tve iti | dhiṣaṇā | vaṣṭi | pra | devān | janma | gṛṇate | yajadhyai | vepiṣṭhaḥ | aṅgirasām | yat | ha | vipraḥ | madhu | chandaḥ | bhanati | rebhaḥ | iṣṭau