Sukta 6.11
त्वं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु । पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव स्वाम् ॥
त्वं होता॑ म॒न्द्रत॑मो नो अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये॑षु । पा॒व॒कया॑ जु॒ह्वा॒३॒॑ वह्नि॑रा॒साग्ने॒ यज॑स्व त॒न्वं१॒॑ तव॒ स्वाम् ॥
tváṃ hotā́ mandrá-tamo no adhrúg antár devó vidáthā mártyeṣu | pāvakáyā juhvā́ vahnír āsā́gne yájasva tanvàṃ táva svā́m ||
Thou art our most gladdening Hotṛ, unerring; a god within the gatherings of mortals. With thy purifying ladle as the carrier-flame, O Agni, perform the sacrifice of thy own being—thy proper self-manifestation.
त्वम् । होता॑ । म॒न्द्रऽत॑मः । नः॒ । अ॒ध्रुक् । अ॒न्तः । दे॒वः । वि॒दथा॑ । मर्ते॑षु । पा॒व॒कया॑ । जु॒ह्वा॑ । वह्निः॑ । आ॒सा । अग्ने॑ । यज॑स्व । त॒न्व॑म् । तव॑ । स्वाम् ॥त्वम् । होता । मन्द्रतमः । नः । अध्रुक् । अन्तः । देवः । विदथा । मर्तेषु । पावकया । जुह्वा । वह्निः । आसा । अग्ने । यजस्व । तन्वम् । तव । स्वाम् ॥tvam | hotā | mandra-tamaḥ | naḥ | adhruk | antaḥ | devaḥ | vidathā | marteṣu | pāvakayā | juhvā | vahniḥ | āsā | agne | yajasva | tanvam | tava | svām