Sukta 6.11
यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न प्रयुक्ति । आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः ॥
यज॑स्व होतरिषि॒तो यजी॑या॒नग्ने॒ बाधो॑ म॒रुतां॒ न प्रयु॑क्ति । आ नो॑ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा॑ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ॥
yájasva hotariṣitó yajī́yān agné bā́dho marútāṃ ná prá-yukti | ā́ no mitrā́varuṇā nā́satyā dyā́vā hotrā́ya pṛthivī́ vavṛtyāḥ ||
Perform the sacrifice, O Hotṛ, impelled within, most worshipful—O Agni, a driving force like the Maruts’ onset. Let Mitra-Varuṇa come to us, and the Nāsatyas; let Heaven and Earth turn themselves towards our priestly offering.
यज॑स्व । हो॒तः॒ । इ॒षि॒तः । यजी॑यान् । अग्ने॑ । बाधः॑ । म॒रुता॑म् । न । प्रऽयु॑क्ति । आ । नः॒ । मि॒त्रावरु॑णा । नास॑त्या । द्यावा॑ । हो॒त्राय॑ । पृ॒थि॒वी इति॑ । व॒वृ॒त्याः॒ ॥यजस्व । होतः । इषितः । यजीयान् । अग्ने । बाधः । मरुताम् । न । प्रयुक्ति । आ । नः । मित्रावरुणा । नासत्या । द्यावा । होत्राय । पृथिवी इति । ववृत्याः ॥yajasva | hotaḥ | iṣitaḥ | yajīyān | agne | bādhaḥ | marutām | na | pra-yukti | ā | naḥ | mitrāvaruṇā | nāsatyā | dyāvā | hotrāya | pṛthivī iti | vavṛtyāḥ