Sukta 6.10
इमं यज्ञं चनो धा अग्न उशन्यं त आसानो जुहुते हविष्मान् । भरद्वाजेषु दधिषे सुवृक्तिमवीर्वाजस्य गध्यस्य सातौ ॥
इ॒मं य॒ज्ञं चनो॑ धा अग्न उ॒शन्यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न् । भ॒रद्वा॑जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ ॥
imáṃ yajñáṃ cáno dhā agna uśányam ta āsānáḥ juhuté haviṣmā́n | bharádvājeṣu dadhiṣe su-vṛktím avīr vā́jasya gádhyasya sātáu ||
Establish for us this sacrifice as thy delight, O Agni; the offerer, seated in the rite, pours the oblation. Among the Bharadvājas thou settest the well-fashioned word; thou hast helped us in the winning of the plenitude and its firm attainment.
इ॒मम् । य॒ज्ञम् । चनः॑ । धाः॒ । अ॒ग्ने॒ । उ॒शन् । यम् । ते॒ । आ॒सा॒नः । जु॒हु॒ते । ह॒विष्मा॑न् । भ॒रत्ऽवा॑जेषु । द॒धि॒षे॒ । सु॒ऽवृ॒क्तिम् । अवीः॑ । वाज॑स्य । गध्य॑स्य । सा॒तौ ॥इमम् । यज्ञम् । चनः । धाः । अग्ने । उशन् । यम् । ते । आसानः । जुहुते । हविष्मान् । भरत्वाजेषु । दधिषे । सुवृक्तिम् । अवीः । वाजस्य । गध्यस्य । सातौ ॥imam | yajñam | canaḥ | dhāḥ | agne | uśan | yam | te | āsānaḥ | juhute | haviṣmān | bharat-vājeṣu | dadhiṣe | su-vṛktim | avīḥ | vājasya | gadhyasya | sātau