Sukta 6.10
नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि । ये राधसा श्रवसा चात्यन्यान्त्सुवीर्येभिश्चाभि सन्ति जनान् ॥
नू न॑श्चि॒त्रं पु॑रु॒वाजा॑भिरू॒ती अग्ने॑ र॒यिं म॒घव॑द्भ्यश्च धेहि । ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान्त्सु॒वीर्ये॑भिश्चा॒भि सन्ति॒ जना॑न् ॥
nū naś citráṃ puru-vājā́bhir ūtī́ agné rayíṃ maghávadbhyaś ca dhehi | ye rā́dhasā śrávasā cā́ti anyā́n su-vī́ryebhiś cābhí sánti jánān ||
Now, O Agni, set in us a shining plenitude—by thy many powers of force and thy protecting help—this inner wealth for us and for the givers. They who, by abundance and by inspired fame, surpass the others, and by heroic energies stand above the peoples.
नु । नः॒ । चि॒त्रम् । पु॒रु॒ऽवाजा॑भिः । ऊ॒ती । अग्ने॑ । र॒यिम् । म॒घव॑त्ऽभ्यः । च॒ । धे॒हि॒ । ये । राध॑सा । श्रव॑सा । च॒ । अति॑ । अ॒न्यान् । सु॒ऽवीर्ये॑भिः । च॒ । अ॒भि । सन्ति॑ । जना॑न् ॥नु । नः । चित्रम् । पुरुवाजाभिः । ऊती । अग्ने । रयिम् । मघवत्भ्यः । च । धेहि । ये । राधसा । श्रवसा । च । अति । अन्यान् । सुवीर्येभिः । च । अभि । सन्ति । जनान् ॥nu | naḥ | citram | puru-vājābhiḥ | ūtī | agne | rayim | maghavat-bhyaḥ | ca | dhehi | ye | rādhasā | śravasā | ca | ati | anyān | su-vīryebhiḥ | ca | abhi | santi | janān