Sukta 6.10
आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा । अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः ॥
आ यः प॒प्रौ जाय॑मान उ॒र्वी दू॑रे॒दृशा॑ भा॒सा कृ॒ष्णाध्वा॑ । अध॑ ब॒हु चि॒त्तम॒ ऊर्म्या॑यास्ति॒रः शो॒चिषा॑ ददृशे पाव॒कः ॥
ā́ yáḥ papráu jā́yamāna urvī́ dūré-dṛśā bhā́sā kṛṣṇā́dhvā | ádha bahú cit táma ūrmyā́yās tiráḥ śóciṣā dadṛśe pāvakáḥ ||
He who, being born, spread wide across the vast, seen from afar by his radiance, making a dark path into a way of light—then even much darkness, across the wave of it, the Purifier was seen by his flame.
आ । यः । प॒प्रौ । जाय॑मानः । उ॒र्वी इति॑ । दू॒रे॒ऽदृशा॑ । भा॒सा । कृ॒ष्णऽअ॑ध्वा । अध॑ । ब॒हु । चि॒त् । तमः॑ । ऊर्म्या॑याः । ति॒रः । शो॒चिषा॑ । द॒दृ॒शे॒ । पा॒व॒कः ॥आ । यः । पप्रौ । जायमानः । उर्वी इति । दूरेदृशा । भासा । कृष्णअध्वा । अध । बहु । चित् । तमः । ऊर्म्यायाः । तिरः । शोचिषा । ददृशे । पावकः ॥ā | yaḥ | paprau | jāyamānaḥ | urvī iti | dūre--dṛśā | bhāsā | kṛṣṇa-adhvā | adha | bahu | cit | tamaḥ | ūrmyāyāḥ | tiraḥ | śociṣā | dadṛśe | pāvakaḥ