Sukta 6.10
पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः । चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति ॥
पी॒पाय॒ स श्रव॑सा॒ मर्त्ये॑षु॒ यो अ॒ग्नये॑ द॒दाश॒ विप्र॑ उ॒क्थैः । चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो॑चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ॥
pīpā́ya sá śrávasā mártyeṣu yó agnáye dadā́śa vípra ukthaíḥ | citrā́bhis tám ūtíbhis citrá-śocir vrajásya sātā́ gó-mato dadhāti ||
He grows in luminous fame among mortals who gives to Agni—who, as the inspired one, offers him by hymns. The many-flaming One, by his varied helps, establishes for him the winning of the luminous herds: the plenitude of rays (knowledge).
पी॒पाय॑ । सः । श्रव॑सा । मर्त्ये॑षु । यः । अ॒ग्नये॑ । द॒दाश॑ । विप्रः॑ । उ॒क्थैः । चि॒त्राभिः॑ । तम् । ऊ॒तिऽभिः॑ । चि॒त्रऽशो॑चिः । व्र॒जस्य॑ । सा॒ता । गोऽम॑तः । द॒धा॒ति॒ ॥पीपाय । सः । श्रवसा । मर्त्येषु । यः । अग्नये । ददाश । विप्रः । उक्थैः । चित्राभिः । तम् । ऊतिभिः । चित्रशोचिः । व्रजस्य । साता । गोमतः । दधाति ॥pīpāya | saḥ | śravasā | martyeṣu | yaḥ | agnaye | dadāśa | vipraḥ | ukthaiḥ | citrābhiḥ | tam | ūti-bhiḥ | citra-śociḥ | vrajasya | sātā | go--mataḥ | dadhāti