Sukta 6.1
सो अग्न ईजे शशमे च मर्तो यस्त आनट् समिधा हव्यदातिम् । य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः ॥
सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा॑ ह॒व्यदा॑तिम् । य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोत॑: ॥
só agna ī́je śaśamé ca márto yás ta ā́naṭ samídhā havyádātim | yá āhútiṃ pári védā námobhir víśvet sà vāmā́ dadhate tvótaḥ ||
That mortal worships and comes to right quietude who reaches your gift of the offering by the kindling. He who knows the oblation all around with acts of homage—he indeed holds all desirable plenitudes, protected by you.
सः । अ॒ग्ने॒ । ई॒जे॒ । श॒श॒मे । च॒ । मर्तः॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । ह॒व्यऽदा॑तिम् । यः । आऽहु॑तिम् । परि॑ । वे॒द॒ । नमः॑ऽभिः । विश्वा॑ । इत् । सः । वा॒मा । द॒ध॒ते॒ । त्वाऽऊ॑तः ॥सः । अग्ने । ईजे । शशमे । च । मर्तः । यः । ते । आनट् । सम्इधा । हव्यदातिम् । यः । आहुतिम् । परि । वेद । नमःभिः । विश्वा । इत् । सः । वामा । दधते । त्वाऊतः ॥saḥ | agne | īje | śaśame | ca | martaḥ | yaḥ | te | ānaṭ | sam-idhā | havya-dātim | yaḥ | āhutim | pari | veda | namaḥ-bhiḥ | viśvā | it | saḥ | vāmā | dadhate | tvāūtaḥ