Sukta 6.1
अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः । वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौ यतेम ॥
अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो॑भिरग्ने स॒मिधो॒त ह॒व्यैः । वेदी॑ सूनो सहसो गी॒र्भिरु॒क्थैरा ते॑ भ॒द्रायां॑ सुम॒तौ य॑तेम ॥
asmā u te máhi mahé vidhéma namóbhir agne samídhotá havyáiḥ | védī sūno sahaso gīrbhír uktháir ā́ te bhadrā́yāṃ sumatáu yatem ||
To you, O Agni, for the vast Greatness, we would offer our shaping worship with acts of reverence—by kindling and by oblations. O Son of Force, we would build the altar for you with inspired words and hymns; may we move toward you and arrive in your auspicious, luminous right-mindedness.
अ॒स्म्सि । ऊँ॒ इति॑ । ते॒ । महि॑ । म॒हे । वि॒धे॒म॒ । नमः॑ऽभिः । अ॒ग्ने॒ । स॒म्ऽइधा । उ॒त । ह॒व्यैः । वेदी॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । गीः॒ऽभिः । उ॒क्थैः । आ । ते॒ । भ॒द्राया॑म् । सु॒ऽम॒तौ । या॒ते॒म॒ ॥अस्म्सि । ऊँ इति । ते । महि । महे । विधेम । नमःभिः । अग्ने । सम्इधा । उत । हव्यैः । वेदी । सूनो इति । सहसः । गीःभिः । उक्थैः । आ । ते । भद्रायाम् । सुमतौ । यातेम ॥asmsi | oṃ iti | te | mahi | mahe | vidhema | namaḥ-bhiḥ | agne | sam-idhā | uta | havyaiḥ | vedī | sūno iti | sahasaḥ | gīḥ-bhiḥ | ukthaiḥ | ā | te | bhadrāyām | su-matau | yātema