Sukta 6.1
विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् । प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम् ॥
वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम् । प्रेती॑षणिमि॒षय॑न्तं पाव॒कं राज॑न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम् ॥
viśā́ṃ kavíṃ viśpátiṃ śáśvatīnām nitóśanaṃ vṛṣabháṃ carṣaṇīnā́m | prétīṣaṇim iṣáyantaṃ pāvakáṃ rājántaṃ agníṃ yajatáṃ rayīṇā́m ||
Agni—the seer of the peoples, the lord of the enduring clans, the strong increaser, the bull of the human races—pressing forward the impulsion, urging the movement, purified and radiant; the adorable kingly Fire of the plenitudes.
वि॒शाम् । क॒विम् । वि॒श्पति॑म् । शश्व॑तीनाम् । नि॒ऽतोश॑नम् । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् । प्रेति॑ऽइषणिम् । इ॒षय॑न्तम् । पा॒व॒कम् । राज॑न्तम् । अ॒ग्निम् । य॒ज॒तम् । र॒यी॒णाम् ॥विशाम् । कविम् । विश्पतिम् । शश्वतीनाम् । नितोशनम् । वृषभम् । चर्षणीनाम् । प्रेतिइषणिम् । इषयन्तम् । पावकम् । राजन्तम् । अग्निम् । यजतम् । रयीणाम् ॥viśām | kavim | viśpatim | śaśvatīnām | ni-tośanam | vṛṣabham | carṣaṇīnām | preti-iṣaṇim | iṣayantam | pāvakam | rājantam | agnim | yajatam | rayīṇām