Sukta 6.1
तं त्वा वयं सुध्यो नव्यमग्ने सुम्नायव ईमहे देवयन्तः । त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥
तं त्वा॑ व॒यं सु॒ध्यो॒३॒॑ नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यन्त॑: । त्वं विशो॑ अनयो॒ दीद्या॑नो दि॒वो अ॑ग्ने बृह॒ता रो॑च॒नेन॑ ॥
táṃ tvā vayaṃ sudhyo návyam agne sumnāyáva īmahe deváyantaḥ | tvaṃ víśo anayo dī́dyāno divó agne bṛhatā́ rocanéna ||
You, that new and right-guiding one, we desire, O Agni, seeking your grace and seeking the gods. You lead the peoples, blazing, O Agni, by the vast luminous world of heaven.
त्वम् । त्वा॒ । व॒यम् । सु॒ऽध्यः॑ । नव्य॑म् । अ॒ग्ने॒ । सु॒म्न॒ऽयवः॑ । ई॒म॒हे॒ । दे॒व॒ऽयन्तः॑ । त्वम् । विशः॑ । अ॒न॒यः॒ । दीद्या॑नः । दि॒वः । अ॒ग्ने॒ । बृ॒ह॒ता । रो॒च॒नेन॑ ॥त्वम् । त्वा । वयम् । सुध्यः । नव्यम् । अग्ने । सुम्नयवः । ईमहे । देवयन्तः । त्वम् । विशः । अनयः । दीद्यानः । दिवः । अग्ने । बृहता । रोचनेन ॥tvam | tvā | vayam | su-dhyaḥ | navyam | agne | sumna-yavaḥ | īmahe | deva-yantaḥ | tvam | viśaḥ | anayaḥ | dīdyānaḥ | divaḥ | agne | bṛhatā | rocanena