Sukta 6.1
सपर्येण्यः स प्रियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान् । तं त्वा वयं दम आ दीदिवांसमुप ज्ञुबाधो नमसा सदेम ॥
स॒प॒र्येण्य॒: स प्रि॒यो वि॒क्ष्व१॒॑ग्निर्होता॑ म॒न्द्रो नि ष॑सादा॒ यजी॑यान् । तं त्वा॑ व॒यं दम॒ आ दी॑दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ॥
saparyéṇyaḥ sá priyó vikṣv àgnír hótā mandró ní ṣasādā yajī́yān | táṃ tvā vayaṃ dáma ā́ dīdivā́ṃsam úpa jñubā́dho námasā sadema ||
Worthy of service, beloved among the clans, Agni the priest, the gladdener, has sat down—more fit for sacrifice. To you, shining in our home, we come near with bowed knee, and by homage we would sit in your presence.
स॒प॒र्येण्यः॑ । सः । प्रि॒यः । वि॒क्षु । अ॒ग्निः । होता॑ । म॒न्द्रः । नि । सि॒सा॒द॒ । यजी॑यान् । तम् । त्वा॒ । व॒यम् । दमे॑ । आ । दी॒दि॒ऽवांस॑म् । उप॑ । ज्ञु॒ऽबाधः॑ । नम॑सा । स॒दे॒म॒ ॥सपर्येण्यः । सः । प्रियः । विक्षु । अग्निः । होता । मन्द्रः । नि । सिसाद । यजीयान् । तम् । त्वा । वयम् । दमे । आ । दीदिवांसम् । उप । ज्ञुबाधः । नमसा । सदेम ॥saparyeṇyaḥ | saḥ | priyaḥ | vikṣu | agniḥ | hotā | mandraḥ | ni | sisāda | yajīyān | tam | tvā | vayam | dame | ā | dīdi-vāṃsam | upa | jñu-bādhaḥ | namasā | sadema