Sukta 6.1
त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् । त्वं त्राता तरणे चेत्यो भूः पिता माता सदमिन्मानुषाणाम् ॥
त्वां व॑र्धन्ति क्षि॒तय॑: पृथि॒व्यां त्वां राय॑ उ॒भया॑सो॒ जना॑नाम् । त्वं त्रा॒ता त॑रणे॒ चेत्यो॑ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ॥
tvā́ṃ vardhanti kṣitáyaḥ pṛthivyā́ṃ tvā́ṃ rā́ya ubháyāso jánānām | tvaṃ trātā́ taraṇé cétyo bhūḥ pitā́ mātā́ sadám ín mā́nuṣāṇām ||
The peoples on earth increase you; the plenitudes of both kinds among men increase you. You become the saviour in the crossing, the one to be heeded; you are father and mother always for the human being.
त्वाम् । व॒र्ध॒न्ति॒ । क्षि॒तयः॑ । पृ॒थि॒व्याम् । त्वाम् । रायः॑ । उ॒भया॑सः । जना॑नाम् । त्वम् । त्रा॒ता । त॒र॒णे॒ । चेत्यः॑ । भूः॒ । पि॒ता । मा॒ता । सद॑म् । इत् । मानु॑षाणाम् ॥त्वाम् । वर्धन्ति । क्षितयः । पृथिव्याम् । त्वाम् । रायः । उभयासः । जनानाम् । त्वम् । त्राता । तरणे । चेत्यः । भूः । पिता । माता । सदम् । इत् । मानुषाणाम् ॥tvām | vardhanti | kṣitayaḥ | pṛthivyām | tvām | rāyaḥ | ubhayāsaḥ | janānām | tvam | trātā | taraṇe | cetyaḥ | bhūḥ | pitā | mātā | sadam | it | mānuṣāṇām