Sukta 6.1
पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्नमृक्तम् । नामानि चिद्दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥
प॒दं दे॒वस्य॒ नम॑सा॒ व्यन्त॑: श्रव॒स्यव॒: श्रव॑ आप॒न्नमृ॑क्तम् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि भ॒द्रायां॑ ते रणयन्त॒ संदृ॑ष्टौ ॥
padáṃ devásya námasā vyántaḥ śravasyávaḥ śráva ā́pann amṛ́ktam | nā́māni cid dadhire yajñíyāni bhadrā́yāṃ te raṇayanta sám-dṛṣṭau ||
By homage they have found the step of the god; seeking the glory they attained an unbroken fame. They have even set in place the sacrificial Names; in your auspicious vision they take delight and are made glad.
प॒दम् । दे॒वस्य॑ । नम॑सा । व्यन्तः॑ । श्र॒व॒स्यवः॑ । श्रवः॑ । आ॒प॒न् । अमृ॑क्तम् । नामा॑नि । चि॒त् । द॒धि॒रे॒ । य॒ज्ञिया॑नि । भ॒द्राया॑म् । ते॒ । र॒ण॒य॒न्त॒ । सम्ऽदृ॑ष्टौ ॥पदम् । देवस्य । नमसा । व्यन्तः । श्रवस्यवः । श्रवः । आपन् । अमृक्तम् । नामानि । चित् । दधिरे । यज्ञियानि । भद्रायाम् । ते । रणयन्त । सम्दृष्टौ ॥padam | devasya | namasā | vyantaḥ | śravasyavaḥ | śravaḥ | āpan | amṛktam | nāmāni | cit | dadhire | yajñiyāni | bhadrāyām | te | raṇayanta | sam-dṛṣṭau