Sukta 6.1
वृतेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जागृवांसो अनु ग्मन् । रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥
वृ॒तेव॒ यन्तं॑ ब॒हुभि॑र्वस॒व्यै॒३॒॑स्त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ ग्मन् । रुश॑न्तम॒ग्निं द॑र्श॒तं बृ॒हन्तं॑ व॒पाव॑न्तं वि॒श्वहा॑ दीदि॒वांस॑म् ॥
vṛtā́iva yántaṃ bahúbhir vasavyáiḥ tvé rayíṃ jāgṛvā́ṃso ánu gman | rúśantam agníṃ darśatáṃ bṛhántam vapā́vantam viśváhā dīdivā́ṃsam ||
As to a chosen goal they follow him with many riches, waking in themselves the plenitude that is in you. They follow the shining Agni, visible and vast, bearing the radiant flame, ever blazing through all the days.
वृ॒ताऽइ॑व । यन्त॑म् । ब॒हुऽभिः॑ । व॒स॒व्यैः॑ । त्वे इति॑ । र॒यिम् । जा॒गृ॒ऽवांसः॑ । अनु॑ । ग्म॒न् । रुश॑न्तम् । अ॒ग्निम् । द॒र्श॒तम् । बृ॒हन्त॑म् । व॒पाऽव॑न्तम् । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् ॥वृताइव । यन्तम् । बहुभिः । वसव्यैः । त्वे इति । रयिम् । जागृवांसः । अनु । ग्मन् । रुशन्तम् । अग्निम् । दर्शतम् । बृहन्तम् । वपावन्तम् । विश्वहा । दीदिवांसम् ॥vṛtāiva | yantam | bahu-bhiḥ | vasavyaiḥ | tve iti | rayim | jāgṛ-vāṃsaḥ | anu | gman | ruśantam | agnim | darśatam | bṛhantam | vapāvantam | viśvahā | dīdi-vāṃsam