Sukta 6.1
अधा होता न्यसीदो यजीयानिळस्पद इषयन्नीड्यः सन् । तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ॥
अधा॒ होता॒ न्य॑सीदो॒ यजी॑यानि॒ळस्प॒द इ॒षय॒न्नीड्य॒: सन् । तं त्वा॒ नर॑: प्रथ॒मं दे॑व॒यन्तो॑ म॒हो रा॒ये चि॒तय॑न्तो॒ अनु॑ ग्मन् ॥
adhā́ hótā ny àsīdo yajī́yān iḷás-páda iṣáyann ī́ḍyaḥ sán | táṃ tvā nárāḥ prathamáṃ deváyanto mahó rāyé citáyanto ánu gman ||
Then the priest took his seat—more and more fit for sacrifice—on the place of Ila, impelling the flow, being worthy of adoration. Him, you (Agni), the men who seek the gods followed first, desiring the vast plenitude of being and awakening it into consciousness.
अध॑ । हाता॑ । नि । अ॒सी॒दः॒ । यजी॑यान् । इ॒ळः । प॒दे । इ॒षय॑न् । ईड्यः॑ । सन् । तम् । त्वा॒ । नरः॑ । प्र॒थ॒मम् । दे॒व॒ऽयन्तः॑ । म॒हः । रा॒ये । चि॒तय॑न्तः । अनु॑ । ग्म॒न् ॥अध । हाता । नि । असीदः । यजीयान् । इळः । पदे । इषयन् । ईड्यः । सन् । तम् । त्वा । नरः । प्रथमम् । देवयन्तः । महः । राये । चितयन्तः । अनु । ग्मन् ॥adha | hātā | ni | asīdaḥ | yajīyān | iḷaḥ | pade | iṣayan | īḍyaḥ | san | tam | tvā | naraḥ | prathamam | deva-yantaḥ | mahaḥ | rāye | citayantaḥ | anu | gman