Sukta 6.1
नृवद्वसो सदमिद्धेह्यस्मे भूरि तोकाय तनयाय पश्वः । पूर्वीरिषो बृहतीरारेअघा अस्मे भद्रा सौश्रवसानि सन्तु ॥
नृ॒वद्व॑सो॒ सद॒मिद्धे॑ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः । पू॒र्वीरिषो॑ बृह॒तीरा॒रेअ॑घा अ॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ॥
nṛvád vaso sádam íd dhehy asmē bhū́ri tokā́ya tánayāya paśváḥ | pūrvī́r íṣo bṛhatī́r āré-aghā asmē bhadrā́ sauśravasā́ni santu ||
O lord of riches, establish in us continually a man-strengthening abundance—plenty for our inner child and for our growing powers and energies. Let the primal streams of impulsion, vast and far from harm, be ours; in us let there be auspicious gains of luminous hearing and good report.
नृ॒ऽवत् । व॒सो॒ इति॑ । सद॑म् । इत् । धे॒हि॒ । अ॒स्मे इति॑ । भूरि॑ । तो॒काय॑ । तन॑याय । प॒श्वः । पू॒र्वीः । इषः॑ । बृ॒ह॒तीः । आ॒रेऽअ॑घाः । अ॒स्मे इति॑ । भ॒द्रा । सौ॒श्र॒व॒सानि॑ । स॒न्तु॒ ॥नृवत् । वसो इति । सदम् । इत् । धेहि । अस्मे इति । भूरि । तोकाय । तनयाय । पश्वः । पूर्वीः । इषः । बृहतीः । आरेअघाः । अस्मे इति । भद्रा । सौश्रवसानि । सन्तु ॥nṛ-vat | vaso iti | sadam | it | dhehi | asme iti | bhūri | tokāya | tanayāya | paśvaḥ | pūrvīḥ | iṣaḥ | bṛhatīḥ | āre--aghāḥ | asme iti | bhadrā | sauśravasāni | santu