Sukta 6.1
आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः । बृहद्भिर्वाजैः स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि ॥
आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा श्रवो॑भिश्च श्रव॒स्य१॒॑स्तरु॑त्रः । बृ॒हद्भि॒र्वाजै॒: स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा॑हि ॥
ā́ yas tatántha ródasī ví bhāsā́ śrávobhiś ca śravasyás tárutraḥ | bṛhádbhir vājáiḥ sthaviráir asmē revádbhir agne vitáraṃ ví bhāhi ||
O Agni, you who have stretched out the two worlds with your shining, and with your powers of fame make us ever more worthy of luminous hearing—shine out for us more widely, with great and firm vāja-forces, with riches that are full of light.
आ । यः । त॒तन्थ॑ । रोद॑सी॒ इति॑ । वि । भा॒सा । श्रवः॑ऽभिः । च॒ । श्र॒व॒स्यः॑ । तरु॑त्रः । बृ॒हत्ऽभिः॑ । वाजैः॑ । स्थवि॑रेभिः । अ॒स्मे इति॑ । रे॒वत्ऽभिः॑ । अ॒ग्ने॒ । वि॒ऽत॒रम् । वि । भा॒हि॒ ॥आ । यः । ततन्थ । रोदसी इति । वि । भासा । श्रवःभिः । च । श्रवस्यः । तरुत्रः । बृहत्भिः । वाजैः । स्थविरेभिः । अस्मे इति । रेवत्भिः । अग्ने । वितरम् । वि । भाहि ॥ā | yaḥ | tatantha | rodasī iti | vi | bhāsā | śravaḥ-bhiḥ | ca | śravasyaḥ | tarutraḥ | bṛhat-bhiḥ | vājaiḥ | sthavirebhiḥ | asme iti | revat-bhiḥ | agne | vi-taram | vi | bhāhi