Sukta 5.82
य इमे उभे अहनी पुर एत्यप्रयुच्छन् । स्वाधीर्देवः सविता ॥
य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन् । स्वा॒धीर्दे॒वः स॑वि॒ता ॥
yá imé ubhé áhanī purá éty áprayucchan | svādhī́r deváḥ savitā́ ||
He who goes before these two Days, unwearied and unbroken in his advance—Savitṛ the god, of self-lawed intelligence.
यः । इ॒मे इति॑ । उ॒भे इति॑ । अह॑नी॒ इति॑ । पु॒रः । एति॑ । अप्र॑ऽयुच्छन् । सु॒ऽआ॒धीः । दे॒वः । स॒वि॒ता ॥यः । इमे इति । उभे इति । अहनी इति । पुरः । एति । अप्रयुच्छन् । सुआधीः । देवः । सविता ॥yaḥ | ime iti | ubhe iti | ahanī iti | puraḥ | eti | apra-yucchan | su-ādhīḥ | devaḥ | savitā