Sukta 5.82
विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्न आ सुव ॥
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सुव । यद्भ॒द्रं तन्न॒ आ सु॑व ॥
víśvāni deva savitar duritā́ni párā suva | yád bhadráṃ tán na ā́ suva ||
All mis-movements and wrong turnings, O god Savitṛ, impel away from us; and whatever is the good, that do thou impel into us and establish.
विश्वा॑नि । दे॒व॒ । स॒वि॒तः॒ । दुः॒ऽइ॒तानि॑ । परा॑ । सु॒व॒ । यत् । भ॒द्रम् । तत् । नः॒ । आ । सु॒व॒ ॥विश्वानि । देव । सवितः । दुःइतानि । परा । सुव । यत् । भद्रम् । तत् । नः । आ । सुव ॥viśvāni | deva | savitaḥ | duḥ-itāni | parā | suva | yat | bhadram | tat | naḥ | ā | suva