Sukta 5.82
अद्या नो देव सवितः प्रजावत्सावीः सौभगम् । परा दुष्ष्वप्न्यं सुव ॥
अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्सावी॒: सौभ॑गम् । परा॑ दु॒ष्ष्वप्न्यं॑ सुव ॥
adyā́ no deva savitaḥ prajā́vatsāvī́ḥ sáubhagam | párā duṣṣvápnyaṃ suva ||
Today, O god Savitṛ, impel for us a felicity rich in progeny and growth; drive far away the evil dream that clouds the inner seeing.
अ॒द्य । नः॒ । दे॒व॒ । स॒वि॒त॒रिति॑ । प्र॒जाऽव॑त् । सा॒वीः॒ । सौभ॑गम् । परा॑ । दुः॒ऽस्वप्न्य॑म् । सु॒व॒ ॥अद्य । नः । देव । सवितरिति । प्रजावत् । सावीः । सौभगम् । परा । दुःस्वप्न्यम् । सुव ॥adya | naḥ | deva | savitariti | prajāvat | sāvīḥ | saubhagam | parā | duḥ-svapnyam | suva