Sukta 5.82
अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् । न मिनन्ति स्वराज्यम् ॥
अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् । न मि॒नन्ति॑ स्व॒राज्य॑म् ॥
asyá hí sváyaśastaraṃ savitúḥ kác caná priyám | ná minánti svārā́jyam ||
For of Savitṛ, the self-glorious, whatever is dear—none diminish it; his self-rule, his sovereign inner kingdom, suffers no violation.
अस्य॑ । हि । स्वय॑शःऽतरम् । स॒वि॒तुः । कत् । च॒न । प्रि॒यम् । न । मि॒नन्ति॑ । स्व॒ऽराज्य॑म् ॥अस्य । हि । स्वयशःतरम् । सवितुः । कत् । चन । प्रियम् । न । मिनन्ति । स्वराज्यम् ॥asya | hi | svayaśaḥ-taram | savituḥ | kat | cana | priyam | na | minanti | sva-rājyam