Sukta 5.82
तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि ॥
तत्स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् । श्रेष्ठं॑ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ॥
tát savitúrvṛṇīmahe vayáṃ devásya bhójanam | śréṣṭhaṃ sarvadhā́tamaṃ túraṃ bhágasya dhīmahi ||
That we choose of Savitṛ for ourselves—the god’s nourishing enjoyment: the best, the all-sustaining, the swift and puissant plenitude of Bhaga; on that we set our thought.
तत् । स॒वि॒तुः । वृ॒णी॒म॒हे॒ । व॒यम् । दे॒वस्य॑ । भोज॑नम् । श्रेष्ठ॑म् । स॒र्व॒ऽधात॑मम् । तुर॑म् । भग॑स्य । धी॒म॒हि॒ ॥तत् । सवितुः । वृणीमहे । वयम् । देवस्य । भोजनम् । श्रेष्ठम् । सर्वधातमम् । तुरम् । भगस्य । धीमहि ॥tat | savituḥ | vṛṇīmahe | vayam | devasya | bhojanam | śreṣṭham | sarva-dhātamam | turam | bhagasya | dhīmahi